शुक्रवार, 17 अक्टूबर 2008

स्वागत—गीतम्

महामहनीय मेधाविन्, त्वदीयं स्वागतं कुर्मः।
गुरो गीर्वाणभाषायाः, त्वदीयं स्वागतं कुर्मः।।
दिनं नो धन्यतममेतत्, इयं मंङ्गलमयी वेला।
वयं यद् बालका एते, त्वदीयं स्वागतम् कुर्मः॥
न काचिद् भावना भक्तिः, न काचित् साधना शक्तिः।
परं श्रद्धा-सुमाञ्जलिभिः, त्वदीयं स्वागतं कुर्मः।
किमधिकं ब्रूमहे श्रीमन् निवेदनमेतदेवैकम्।
न बाला विस्मृतिं नेयाः त्वदीयं स्वागतं कुर्मः॥

3 टिप्‍पणियां:

दिवाकर मिश्र ने कहा…

अपने आप ही अपने ब्लॉग पर टिप्पणी कर लेते हो ! अपने ब्लॉग पर कुछ और लिखो और अपने साथियों को बताओ, वे टिप्पणी करें तो इससे उत्साह बढ़ेगा ।

Unknown ने कहा…

एतत् स्वागत गीतम् अति कर्णप्रिय मधुरं च अस्ति ।

Aaditya Mishra ने कहा…
इस टिप्पणी को लेखक द्वारा हटा दिया गया है.